Monday, June 28, 2004

नूतनः यत्नः मम

जयतु संस्कृतं । इदं मम नूतनब्लाग् अस्ति । कन्नडभाषया ह्यः लिखितं मया । अद्य तु संस्कृतेन लिख्यते । 'बरह' इति तन्त्रांशः (software) अस्ति | तन्त्रांशस्य साहाय्येनैव लिखन्नस्मि । एतत् प्रायः विश्वे एव प्रथमं संस्कृतब्लाग् स्यात् । इदानीं ब्लाग् इति नाम्ना एव व्यवह्रियते मया । परन्तु शीघ्रातिशीघ्रं नूतननामान्वेषणं करणीयं अस्माभिः ।

त्रिभाषा-ब्लाग् अस्त्येतत् । सर्वान् दर्शयिष्यामि । जानीमः कथमस्तीति ।

जीयात् गीर्वाणभारती ।

1 comment:

Karthik CS said...

प्रायः ऎतत् प्रथम ब्लाग् नास्ति । क्रुपया ऎतत् url पश्यतु http://parijata.blogspot.com .. सा मॆ मासे ऎव सम्स्कुते ब्लाग् लिखितवती अस्ति ॥